Ram Raksha Stotra in Hindi

श्रीगणेशायनम: | अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य | बुधकौशिक ऋषि: | श्रीसीतारामचंद्रोदेवता | अनुष्टुप्‌ छन्द: | सीता शक्ति: | श्रीमद्‌हनुमान्‌ कीलकम्‌ | श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: || || अथ ध्यानम्‌ || ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्‌मासनस्थं | पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌ || वामाङ्‌कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं | नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्‌ || || इति ध्यानम्‌ || चरितं रघुनाथस्य शतकोटिप्रविस्तरम्‌ | एकैकमक्षरं पुंसां महापातकनाशनम्‌…